प्रतिवर्षं ‘जुलाई’ – मासस्य षड्विंशतितमे (26/7) दिनाङ्के आभारतं कार्गिल् – विजयदिनम् आचर्यते। भारतीयसैन्यस्य पाकिस्थानसैन्यस्य उपरि विजयस्य एषः दिवसः। 1999 तमे वर्षे भारतस्यपाकिस्थानदेशयोः मिथः सप्तसप्ततिदिनानि यावत् युद्धम् अभवत्। भारतीयसैन्यस्य अनेकाः वीरयोद्धारः मातृभूमेः रक्षायै स्वप्राणाहुतिम् अयच्छन्। 1999 तमस्य वर्षस्य ‘जुलाई’ – मासस्य षड्विंशतितमे दिनाङ्के भारत – पाक् – युद्धे भारतस्य ऐतिहासिकः विजयः अभवत्। कारगिल् – युद्धे आत्मसमर्पणं कृतेभ्यः सैनिकेभ्यः श्रद्धाञ्जलिम् अर्पयितुं, भारतीयसैन्यस्य अदम्यसाहसस्य स्मरणार्थं च प्रतिवर्षं सर्वेभारतीयाः विजयदिवसस्य महोत्सवत्वम् आचरन्ति।