(कैरलि) मलयालभाषायाः पिता इति विख्यातस्य तुञ्चत्तु रामानुजन् एषुत्तच्छन् महाभागस्य स्मरणार्थम् अघुष्यमाणं दिनमिदम्। तस्य कवेः जन्म षोडशशतकस्य आद्यपादे अभवदिति मन्यते। अध्यात्मरामायणम्, महाभारतं किलिप्पाट्ट् इत्यादि कृतयः विरचितवानयं किलिप्पाट्ट् प्रस्थानस्य स्थापकः भवति।