शं नो वरुण – इत्यस्ति भारतीयनाविकसेनायाः मुद्रावाक्यम्। भारतस्य समुद्रसीमानां संरक्षणं, विशिष्य अरबिसागरे, बंगाल् सागरे च विद्यमानानां द्वीपसमूहानां च सुरक्षा भारतीयनाविकसेनायाः उत्तरदायित्वमेव। तम् उत्तरदायित्वम् अहोरात्रं कृतवद्भ्यः धीरभटेभ्यः आदरदानमेव अस्य दिनस्य लक्ष्यम्।