भूमौ जीवन संस्थितेः, मनुष्यविकासस्य, परिस्थितिसन्तुलनस्य च आधारः जलमेव। इतः परं किंञ्चन लोकयुद्धं भविष्यति चेत् तत् जलार्थं इत्यवगम्य, जलसंरक्षणं जलविनियोगं च नः कर्तव्यमिति  बोधनाय जलदिनम् आचरति।