सुष्टुः निद्रा मनसे शरीराय च नवोन्मेषं प्रददाति। शरीरस्य मनसः च आरोग्याय निद्रा प्रतिदिनं अत्यन्तापेक्षितं भवति। निद्रायाः प्राधान्यं जनान् बोधयितुं एव 2008 प्रभृति दिनमिदं लोकनिद्रादिनत्वेन आचरणाय निश्चितम्। सुखं दुःखं शरीरपुष्टिः शरीरकृशता बलं बलहानिः पौरुषं नपुंसकत्वं ज्ञानम् अज्ञानं च निद्राधीना भवति इति वाग्भटाचार्यः वदति। ‘’निद्रायत्वं सुखं दुःखं पुष्टि कार्यं बलाबलम्। वृषता क्लीबता ज्ञानं अज्ञानं जीवितं च वै। ‘’