मनुष्याणां विवेकरहितानि प्रवर्तनानि भूमेः उपरि क्रियमाणः आघाताश्च वातावरणव्यतियानस्य कारणानि भवन्ति। तत्फलेन जलोपप्लवः अनावृष्टिः जलदौर्लभ्यं झञ्झावातः भूस्खलनं भूच्छेदः अतिवर्षः आगोलतापनं इत्यादयः भवन्ति। वातावरणव्यतियानं वातावरणदुरन्तानि तेषां परिहाराणां चर्चाकरणाय लोकराष्ट्राणां परस्परचर्चाकरणाय  च लोकवातावरणदिनमिदं आचरति।