केरलीयानां कार्षिकोत्सवः भवति विषु। मेषमासस्य प्रथमदिनम् भवति विषु । नूतनवर्षस्य शुभारम्भं सूचयितुं विषुदिने प्रथमतया ʼ विषुक्कणीं ʼ दर्शनं कुर्वन्ति जनाः। सस्य फलादीनां अन्नधनधान्यवसनादीनां च सञ्चयः एकत्र क्रियते । कृष्णविग्रहेण साकं दीपैः अलंकृतस्य अस्य दर्शनमेव विषुक्कणी इति पदेन सूच्यते ।