केरलीयानां कार्षिकोत्सवः भवति विषु। मेषमासस्य प्रथमदिनम् भवति विषु ।  नूतनवर्षस्य शुभारम्भं सूचयितुं विषुदिने प्रथमतया  ʼ विषुक्कणीं ʼ दर्शनं कुर्वन्ति जनाः। सस्य फलादीनां अन्नधनधान्यवसनादीनां  च सञ्चयः एकत्र क्रियते । कृष्णविग्रहेण साकं  दीपैः अलंकृतस्य अस्य दर्शनमेव विषुक्कणी इति पदेन सूच्यते ।