Articles

गांगेयं पीयूषम्

‘सम्मोहयन्ते कवयो जगन्ति’ इति आप्तवाक्यं प्रमाणीकर्तुं नैकानि उत्तमोदाहरणानि काव्यजगति उपलभ्यन्ते। कवित्वं संस्कारविशेषः इत्यत्र नैव संशीतिः। तथापि तदा एव कवित्वं सफलं भवति यदा उत्तमं काव्यं सृजति। काव्यञ्च तदा एव सफलतां याति यदा सहृदयैः आस्वाद्यते।कालिदासादिषु अनुगृहीतेषु एतत्त्रितयं संयुक्तं भवति।भासादयस्तु बहुकालं यावत् निद्रात्वं प्राप्य ईश्वरेच्छया जागृताः अभवन्। वक्ष्यमाणं काव्यमपि तथा सहृदयहृदयं विस्माययत्यधुना।

गंगादेवी नाम कवयित्र्या विरचितं वीरकम्परायचरितम् उतः मधुराविजयं नाम चरितकाव्यम् अत्यन्तम् आस्वाद्यम् अनुभूयते। यद्यपि कवयः बहवः वर्तन्ते तथापि कवयित्र्यः विरलाः दृश्यन्ते। गार्ग्यादिविद्वत्परम्परायामन्तर्भूताः भवन्ति गंगादेवीरामभद्राम्बातिरुमलाम्बाद्याः। तादृशकवयित्रीनां सामान्यावलोकनं संगेष्ठ्यां भविष्यति। १४ तमे विजयनगरसाम्राज्यशासितुः कम्परायस्य, प्रस्तुतनायकस्य राज्ञी एव कवयित्री। कम्परायकृतं मधुरापुराक्रमणम् अभिभवनञ्च काव्यस्य इतिवृत्तं भवति। अष्टौ सर्गाः सन्ति। रीतिस्तु वैदर्भी।काव्यमिदं चमत्कृतवर्णनाभिः सुसम्पन्नम् भवति। तत्र च सप्तमसर्गान्तर्गतमेकं उदाहरणं यथा

“अपसर्पणसंभ्रमच्युतं दिनलक्ष्म्यास्तपनीयकुण्डलम्।

रविमण्डलमाशशङ्किरे वरुणान्तःपुरवामलोचनाः।।