प्रसिद्धः संस्कृतपण्डितः संस्कृताध्यापकश्च भवति वासुदेवन् पोट्टि महोदयः। भारते विद्यमानेषु संस्कृतपण्डितेषु सर्वैः अनुकरणीयः भवति पोट्टिमहोदयः। अयं संस्कृतभाषायाम् कैरलीभाषायां च अनेकान् ग्रन्थान् व्यरचयत्। भोजप्रबव्धः, गुरुपुरेशस्तवः, लघुसिद्धान्त-सिद्धान्तकौमुदी परिभाषादयः तेषु प्रसिद्धाः ग्रन्थाः। संस्कृतपण्डितेभ्यः दीयमानः राष्ट्रपतिपुरस्कारः, शास्त्ररत्नपुरस्कारः, पण्डितरत्नपुरस्कारः, ओणररि डी लिट् इत्यादयः पुरस्काराः अनेन प्राप्ताः।