कर्णाटकसङ्गीतलोके चक्रवर्तिपदमलङ्क्रियमाणः अयं महानुभावः तञ्चावूर् देशे जनिमलभत। संस्कृभाषायामपि बहूनि कीर्तनानि अनेन कृतानि सन्ति। प्रह्लादभक्तिविजयम्, नौकाचरितम् इति सङ्गीतनाटके च अनेन रचिते विद्येते। सङ्गीतमयेन स्वजीवनेन भक्तिं तत्वचिन्तां च प्रसारितवानयं त्यागब्रह्ममिति प्रथाम् अलभत।