ऊनविंशति शतके तिरुवितांकूर् राजा आसीत् स्वाति तिरुनाल् रामवर्मा। गगननिरीक्षणकेन्द्रम्, विश्वविद्यालयकलाशाला, सर्वकारीय मुद्रणालयः, न्यायालयः इत्यादीनां शासनपरिष्काराणां स्थापकः आसीत्। बहुभाषापण्डितः, संगीतज्ञः च अयं केरलसङ्गीतचक्रवर्ती इत्यपि प्रथितः। संस्कृतादि बहुषु भाषासु गीतकर्ता अयं गर्भश्रीमान् इत्यपि प्रसिद्धः।