विश्वस्य प्रथम यान्त्रिक कार् यानस्य निर्माणं कृत्वा एकादश वर्षानन्तरं फोर्ड् मोट्टोर् कम्पनी संस्थापनमपि अकरोत् हेन्री फोर्ड् महोदयः। विश्वप्रसिद्धः उद्योगी अयं प्रारम्भे कृषकः आसीत्। ततः कार्, ट्राक्टर्, विमानम् इत्यादीनां निर्माणं कृतवानयं समाजसेवायां अपि श्रद्धालुः आसीत्।