Articles

महर्षिदयानन्द:

अज्ञताया: अन्धकारे मग्ने स्वसमाजे ज्ञानस्य प्रकाशं दर्शयन् महर्षिदयानन्द: आधुनिकनवोत्थाननायकेषु प्रमुख: अभवत्। ऊनविंशतितमशतकस्य उत्तरार्धे 1825 फेब्रुवरि 12 तमे दिनाङ्के लब्धजन्मो%यं समाजस्य अनाचारान् प्रति स्वजीवनं समर्पितवान्।

तस्मिन् काले भारते अनाचारा: अन्धविश्वासा: च प्रचलिता: आसन्। तदवसरे आसीत् दयानन्दसरस्वतीवर्यस्य जननम्। सामाजीकपरिष्करणाय राष्ट्रनवीकरणाय च अहर्निशं प्रयत्नमकरोत् अयं संन्यासीवर्य: स्वतन्त्रभारतम् इति आशयस्य प्रचारकश्चासीत्। भारतीयानां जीवनरीतय: विश्वासा: च वेदाधिष्ठितं भवति इति तै: उद्घोषितम्।

गुजरात् राज्यस्य कतियवार् देशे टङ्कारनगरे अयं जनिमलभत। बाल्ये तस्य नाम मूलशङ्कर: इत्यासीत्। दयाल्जी इति गृहे तम् आह्वयति स्म। संन्यासदीक्षाया: स्वीकरणानन्तरमेव दयानन्द: इति प्रशस्तोभवत्। बाल्यादेव सामाजिकोन्नमनाय प्रयत्नमकुर्वन्। मूलशङ्करस्य बाल्यं दुरितपूर्णमासीत्। भगिन्या: तथा पितृसहोदरस्य च देहवियोग: दयानन्दं चिन्तामग्नमकरोत्। तत: मोक्षमार्गमन्विष्य यात्रा: आरब्धा:। स्वगृहमुपेक्ष्य विविधदेशेषु यात्राम् अकरोत्। महर्षिणमुपगम्य मोक्षमार्गम् अपृच्छत्। किन्तु तेषाम् उपदेशेषु अतृप्त: स: पुनरपि बहुदूरम् अटति स्म। अन्ते स: परमानन्दसरस्वती महाभागात् संन्यासदीक्षां स्वीचकार। तत: दयानन्दसरस्वती इति नाम स्वीचकार। तदनन्तरं योगशास्त्रादि विषयान् पठित्वा वादप्रतिवादान् अकरोत्। दुराचरान् प्रति विरोधं प्रकटयति स्म। महर्षिवर्य: मोक्ष-पुनर्जन्म-कर्मफलसिद्धान्तादि विषयान् अङ्गीकृतवान्।