Articles

संस्कृतचलच्चित्रविषये नाट्यसत्रम्

संस्कृतचलच्चित्राध्ययनायैकं सर्गात्मकमेकदिवसीयं शिबिरम् | कथा पटकथा सम्भाषणं निदेशनमिति चलच्चित्रस्य समस्तक्षेत्राणापि सामान्यावबोधार्थं मेय मासस्य नवत्यां तिथ्यां (09-05-2019) केरलस्य सांस्कृतिककेन्द्रमिति ख्याते त्रिश्शिवपेरूरनगरे केरल साहित्य अकादमीस्थे चङम्बुषासभागारे सम्पन्नमिदं शिबिरम् | विश्वचलच्चित्रेतिहासे ऐदम्प्राथम्येनैवेदं संस्कृतचलच्चित्रस्य समग्रवीक्षणात्मकं शिबिरं समायोजितम् | भारतमुद्रा संस्कृतपत्रिकया श्री शङ्करा संस्कृतविश्वविद्यालयस्य तिरूर् संभागीयकेन्द्रेण सह सम्मिल्य लैव् सान्स्क्रिट् (livesanskrit) संघेनैवेदं चलच्चित्रशिबिरं समपाद्यत | श्री अशोकन् पुरनाट्टुकरा महोदयस्यानुस्मरणानुबन्धिनो{स्य शिबिरस्य शुभारम्भः प्रातः दशवादने श्री शङ्कराचार्या संस्कृतविश्वविद्यालयस्य तिरूरस्थकेन्द्रस्य साहियविभागाध्यक्षया डो. जयन्ती सी.के महोदयया भद्रदीपप्रज्वालनेन वेदमन्त्रध्वनिभिर्मुखरिते{न्तरिक्षे विधत्तः | मुख्यातिथिरूपेण समुपस्थितः अनुरक्तिर्नाम्नः विश्वस्य प्रथमसंस्कृत 3D चलच्चित्रस्य कार्ययोजनाशिल्पी (प्रोजेक्ट् डिसैनर् ) श्रीमान् मेहरली पोयिलुङ्गल् इस्मयिल् वर्यः शिबिरप्रतिभागिनः अभिसंबोध्याभ्यभाषत | स्वभाषणे सः संस्कृतचलच्चित्रनिर्माणक्रमस्य समग्रवीक्षणं स्वानुभवानामाधारेण प्रास्तावीत् | अनुरक्तेर्निर्माणे लैव् सान्स्क्रिट् संघस्य निस्तुलसेवनानि निस्सीममभ्यनन्दच्च सः | ततः प्रवृत्तेषु भिन्नभिन्नवर्गेषु कथा पटकथा सम्भाषणं निदेशनमित्यादिषु विषयेषु चर्चा मार्गदर्शनञ्चाभूताम् | डो. जयन्ती सी के, डो. महेष् बाबु एस् एन् , डो.निधीष् गोपी, डो. उमा सी एन्, कुमरी अश्वती , श्री शरत् मित्रन् , श्री निपिन् उण्णि, श्री शङ्कर नारायणन् , श्री षिबु कुमार् के , श्री नन्दकिषोर् आर्, श्री विनायक् सी पी इत्येतेषां नेतृत्वे एव कक्ष्याः समचाल्यन्त | अथ चतुर्षु गणेषु विभक्ताः प्रतिभागिनः स्वस्वगणैराविष्कृतेभ्यः आशयेभ्यः कथायाः पटकथायाश्च रूपं प्रदाय स्वदूरवाण्याः सहायतया चित्रीकृत्य चत्वारि लघुचलच्चित्राणि निरमुश्च | शिबिरस्यान्ते तेषां चतुर्णामपि संस्कृतलघुचित्राणां प्रदर्शनञ्चाभूत् | लिबी पुरनाट्टुकरा शिबिरसंयोजकः डो महेष् बाबु एस् एन् शिबिरनिदेशकश्चास्ताम् |