Articles

अशोकन् पुरनाट्टुकरा- प्रणामपञ्चकम्

मूलं भारतसंस्कृतिर्गुरुवरस्यैतस्य लग्नं मन:
शुद्धं संस्कृतपोषणे बहुविधश्चिन्तास्तथा निर्मला।
पूर्वं भारतमुद्रया च प्रथित: सर्वैस्समाराधित:
सोऽयं संस्कृतपादपो विजयते योऽशोकनामाभिध:।।

वाल्सल्यं स्वजने सदा प्रणयिता गैर्वाणवाण्यां गुरो:
नैर्मल्यं निजलेखनेषु गुरुवचस्तीक्ष्णास्सभासु स्थिरा:।
कर्मत्वस्य जगद्धिताय वचनं माधुर्यपूर्णं महान्
सोऽयं संस्कृतपादपो विजयते योऽशोकनामाभिध:।।

गैर्वाणीपदगामिनामभयदस्तद्वाक्यपुष्पोत्करै-
स्सौगन्ध्यादतिमोदको निजगुणैर्भूयिष्ठपर्णायित:।
शास्त्रज्ञानसुपल्लवैर्विलसितस्साहित्यशाखोज्जल:
सोऽयं संस्कृतपादपो विजयते योऽशोकनामाभिध:।।

मज्जन्म खलु संस्कृताय मम सा पूज्या प्रिया देवता
मत्कर्म परसेवनं मयि सदा लीना हि दैवी च वाक्।
इत्थं संस्कृतसेवनात्मकमहापूजा कृता कर्मभि:
सोऽयं संस्कृतपादपो विजयते योऽशोकनामाभिध:।।

अशोकनामात्मकवृक्षमूल-
स्थितस्य मे सन्तु शुभाश्च चिन्ता:।
प्रशान्तगम्भीरस्तरस्वभाव-
स्तदीयवाग्भिर्रमतान्मनो मे।।

  • ए. शङ्करनारायणन्