Articles

रुचिराविचार:

राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषद: (NCERT) अष्टमवर्गस्य पाठ्यपुस्तकं विद्यते रुचिरा तृतीयो भाग:। पुस्तकस्यास्य प्रथमोस्ति पाठ: सुभाषितानीति यत्र षट् सुभाषितश्लोका: संकलिता:। तेषु पञ्चम: श्लोकोस्त्ययम्।
महतां प्रकृति: सैव वर्धितानां परैरपि।
न जहाति निजं भावं संख्यासु लाकृतिर्यथा।।
पदच्छेद: – महतां प्रकृति: सा एव वर्धितानां परै: अपि न जहाति निजं भावं संख्यासु ळृ आकृति: यथा।
अन्वय:- परै: वर्धितानाम् अपि महतां प्रकृति: सा एव यथा संख्यासु लाकृति: निजं भावं न जहाति।
भावार्थ: – यद्यपि महान्त: जना: इतरस्वभाविभि: जनै: (दुर्जनै:) पालिता: भवेयु: तथापि ते कदापि स्वकीयं सज्जनतां अथवा सरलस्वभावं न त्यजति। अवसरे प्राप्ते तेषां निज: भाव: बहिरागच्छत्येव। यथा संख्यासु नव इतराभि: कापिरभि संख्याभि: गुणिता (वर्धिता) भवेच्चेदपि स्वीयं नवत्वभावं (नव इति प्रकृति स्वभावं) कदापि न त्यजति। गणितफलस्य संख्याया: अङ्कानां योगे नव एवोपलभ्यते। तद्यथा –
(कयापि संख्यया गुणिता भवेत् अन्ते अङ्कयोगे नव एव तिष्ठति)9 x1 = 9
9 x 2 = 18 = 1+8 = 9
9 x 8 = 72 = 7+2 = 9
9 x16 = 144 = 1+ 4 + 4 = 9
9 x188 = 1692 = 1+ 6 + 9 + 2 =18 =1+ 8 = 9
प्रायश: शिक्षका: श्लोकस्यास्य पाठने कञ्चिदिव क्लेशमनुभवन्ति। अस्य श्लोकस्य प्रस्तुति: अनया अधोक्तया कथया सरलतया फलप्रदया च रीत्या कर्तुं शक्यत एव।
पुरा एकस्मिन् वने एका गर्भवती सिंहिका वसति स्म। एकदा सा भोजनाय इतस्तत: अटनं कुर्वन्ती आसीत्। सहसा दूरे मृगाणां गण: दृष्टिपदमायात:। ततश्च बूभुक्षाग्रस्ता सा सिंहिका गर्भकुलतां विस्मृत्य मृगगणादेकं गृह्णातुं अकूर्दत्। उच्चै: कूर्दनस्याघातेन पूर्णगर्भवत्या: तस्या: उदरात् सिंहशाबक: बहिरागत: परं सा सिंहिका तत्रैव अम्रियत च। इतस्तत: पलायित: भीत: मृगगण: सिंहशाबस्य रोदनध्वनिम् आकर्ण्य पुन: तत्रैवागत: मृतां सिंहिकां रुदन्तं शाबकं चापश्यत्।
दयान्वित: मृगा: तं सिंहशाबकं तै: साकमनयत्। स च सिंहशाबक: तै: हरिणै: पालित:वर्धितश्च। स: च अहं हरिण इति धियैव वृद्धिमायात:, हरिणवदेव व्यवहारं कुर्वन् तृणं च खादन् जीवनं यापयति स्म। अथ एकदा तस्मिन् वने एक: अपर: सिंह: आगत:। स: तृणं चरन्तं मृगगणं दृष्ट्वैव तस्योपरि अकूर्दत्। तदैव स: सिंह: आत्मानं दृष्ट्वा हरिणै: सह धावन्तं भयभीतम् एकं सिंहं वीक्ष्य स्तब्ध: जात:। स: च अचिन्तयत् – किमर्थमसौ सिंह: मां दृष्ट्वा धावति? एवं विचिन्त्य स: भोजनेच्छां त्यक्त्वा पलायमानं सिंहमन्वधावत् तं अन्वगृह्णाच्च। भीत: स: हरिणसिंह: (य: हरिणै: सार्धं वर्धित) तं सिंहं याचते स्म। मां मा मारय इति। तच्छØत्वा विस्मित: सिंह: तमपृच्छत् – भो सिंह:! त्वं किमर्थं रोदिषि? एतच्छØत्वा स: हरिणसिंह: कथयति – अयि भो! नाहं सिंह:, अहं हरिणोस्मि। मां मा खाद इति। तस्य हरिणावद्भावं रोदनं च दृष्ट्वा सिंह: अब्रवीत् हे सिंह:! त्वं सिंहोसि, न तु हरिण:। एवमुक्त्वा स च तं समीपस्थं ह्रदमनयत् तन्मुखं जले प्रदर्शयच्च। जले स्वप्रतिबिम्बं दृष्ट्वा अपर: सिंहोयमिति चिन्तयन् स: भीत: अभूत्। तदा स वरिष्ठ: सिंह: शान्तचित्तेन उवाच- भो सिंहपुत्र! पश्य एष नापर: सिंह:, परं तवैव प्रतिबिम्ब:। त्वं नासि हरिण:। अवगच्छ आत्मानं सिंहपुत्रम् इति तदाकर्ण्य स: स्वीयां प्रकृतिं प्रत्यभ्यजानात् उच्चैरगर्जच्च।
अस्यां कथायां सिंह: मृगै: पालित: वर्धितश्च हरिणवद्व्यवहारं च करोमि स्म। परं अन्ते अवसरे प्राप्ते तस्मिन् निहित: स्वीयसिंहस्वभाव: बहिरागत एव। एवमेव चोराद् महर्षित्वमाप्तस्य आदिकवे: वाल्मीके: कथापि अत्र उदाहर्तुं शक्यते।