Articles

स्वस्त्यस्तु

विश्वे अत्यधिकं इस्लामधर्मविश्वासिनः निवसन्ति इन्डोनेशिया इति विख्याते द्वीपान्तरदेशे। अत्रत्यः प्रसिद्धः पर्यटनस्थानम् अस्ति बालीद्वीपः। यदा वयं बालीद्वीपं प्राप्नुमः तत्रत्याः अस्मान् हार्दं स्वागतं कुर्वन्ति “ॐ स्वस्त्यस्तु” इति अभिवादनेन। अद्यापि भारतात् बहिः कुत्रचित् संस्कृतभाषया जनानां स्वागतं कुर्वन्ति इति एकं स्थानम् अस्ति बालीद्वीपः। यद्यपि द्वीपान्तरदेशः इस्लामधर्मीयदेशः तथापि अत्रत्ये बालीद्वीपे अत्यधिकाः हिन्दवः एव।
संस्कृतभाषायाः आदरः अद्यापि द्वीपान्तरे सर्वत्र दृश्यते। सर्वकारस्य सैनिकानां च ध्येयवाक्येषु संस्कृतपदानि वाक्यानि वा द्रष्टुं शक्नुमः। यथा “जलेष्वेव जयामहे” इति द्वीपान्तरनाविकसेनायाः ध्येयवाक्यम्। वायुसेनायाः विशेषसैनिकगणस्य ध्येयवाक्यम् अस्ति भगवद्गीतातः “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन” इति। एवं च बालीद्वीपस्य ध्येयवाक्यम् अस्ति “बालीद्वीप जय” इति। -अनुवर्तते….