Articles

प्रेष्यन्ताम् आशिषः गैर्वाण्याम्

विश्वश्रेष्ठभाषासु प्रथमस्थानं सहस्राब्दानां पारम्पर्यं भारतीयभाषाणां मातृस्थानञ्चावहन्ती संस्कृतभाषा सम्प्रति सामान्यजनानां करकमलम् आगच्छति सान्स् ग्रीट् इति आन्ड्रोयिड् आप् द्वारा | सम्पूर्णे विश्वे ऐदं प्राथम्येन लैव् सान्स्क्रिट् संघेन प्रस्तूयते आशंसाप्रणाल्यां नूतनक्रमः अनेन आप् द्वारा | Sanskrit Greetings इति आङ्गलेयपदाभ्यामेव Sansgreet इति नाम स्वीकृतम् | इदं आप् विश्वस्याशंसाक्रमे नूतनान् जालकान् समुद्घाटयति | संस्कृतज्ञानरहिता अपि जनाः सान्स्ग्रीट् द्वारा प्रियेभ्यः शुभाशिषः संस्कृतभाषया सारल्येन प्रेषयितुं प्रभवेयुः | सुरभारत्याः प्रचारप्रसारणे नूतनाङ्कनमेव इदम् सान्स्ग्रीट् नाम आप् | सुप्रभातं, शुभरात्रिः, जन्मदिनं, विवाहदिनं, शुभयात्रा, शुभवारान्त्यं, प्रणयः, सौहृदम् इत्यादिषु चतुर्विंशतिवर्गेषु सहस्राधिकानि आशंसापत्राणि सज्जीकृतानि विद्यन्ते अस्मिन्ननुप्रयोगे | यद्यपि संस्कृतसंबद्धाः नैके अनुप्रयोगाः उपलभ्यन्ते गूगिल् प्ले स्टोर् जाले तथापि सुरवाणीं नित्यजीवनस्याङ्गं विधीयमानोयम् सान्स्ग्रीट् अनुप्रयोगः इदंप्रथमतया एव गूगिल् प्ले स्टोर् जाले उपलभ्यते | चेतोहारिणीभिः आशंसाभिः सह अमूल्यानां वेदोपनिष्द्वाक्यानामपि सङ्कलनं विहितं विराजते आशंसापत्रेषु | संस्कृतज्ञानशून्योपि जनः अनेन अनुप्रयोगेण संस्कृतभाषायाम् आशंसापत्राणि प्रेषयितुं शक्यते इत्यस्ति अस्य मुख्या विशेषता | भिन्नभिन्नानां वर्गाणां नामानि संस्कृताङ्गलभाषाभ्यां दर्शितानि | तथा प्रतिदिनं तद्विशेषतानुगुणानि आशंसापत्राणि सन्निवेश्यन्ते अस्मिन्ननुप्रयोगे | विशिष्टदिनानाम् आशंसापत्रेभ्यः एकः विशिष्टः वर्गः स्थापितो वर्तते यत्र तत्तद्दिनानां समुचितानि आशंसापत्राणि उपलभ्यन्ते | एवमेव भारतीयसंस्कृत्यनुगुणं अन्नप्राशः, नामकरणं, विद्यारम्भः, गृहप्रवेशः इत्याद्याः वर्गाः अपि विद्यन्ते अस्मिन्ननुप्रयोगे | सौहृदप्रणयाद्याः वर्गाः विद्यार्थिभ्यः युवकेभ्यश्च प्रियतमाः समजायन्त | त्रयोविंशतिभाषासु अस्य प्रचारपत्राणि निर्मितानि | भिन्नभिन्नराज्येषु प्रादेशिकभाषासु निर्मितैः प्रचारपत्रैरेव अस्य प्रसारो विधीयते | केरलस्य संस्कृताध्यापकानां livesanskrit नाम संघ एवास्य अनुप्रयोगस्य निर्माणस्य नेपथ्ये वर्तते | संस्कृतक्षेत्रे लैव् सान्स्क्रिट् संघस्य स्वार्थरहितानि निश्श्ब्दानि च प्रवर्तनानि पूर्वमपि संस्कृतानुरागिभिः विद्वद्गणैश्च बहुशः श्लाघितानि | विश्वस्य प्राचीनतमां वैज्ञानिकीं च संस्कृतभाषाम् आधुनिकस्यास्य समाजस्य समक्षम् आकर्षणीयरीत्या प्रस्तुतिरेव लैव् सान्स्क्रिट् संघस्य परमं लक्ष्यम् | 2018 तमे क्रिस्त्वब्दे विश्वस्य सर्वप्रथमं 3D संस्कृतचलच्चित्रं “अनुरक्तिः” हाप्पि ट्यूण् मीडिया इत्यस्य सहयोगेन लैव् सान्स्क्रिट् संघेन समुत्सृष्टम् | चलच्चित्रस्यास्य संस्कृतसंबद्धानि सर्वाण्यपि कार्याणि निश्शुल्कमेव अनेन संघेन कृतानीति संघस्यास्य निस्वार्थसेवां बोधयति | एवञ्च संस्कृते ह्रस्वचलच्चित्रनिर्माणं, अभिनयाभ्यासार्थं नाट्यसत्राणि, पाठ्यपुस्तकनिर्माणं, संस्कृतमासिका इत्याद्यानि संघस्यास्य कर्मक्षेत्राणि विराजन्ते | संघेनानेन आरभ्यमाणः संस्कृतानुरागिणां द्विचक्रिकाचालकानां द्युतिर्नामकः संघः अपि सद्य एव प्रारब्स्यते | डो. महेष् बाबु एस् एन् , लिबि पुरनाटुकरा, विनायक् सी वी, नन्दकिषोर् आर्, राजेष् पी पी, दिलीप् एम् डी, डो. अभिलाष् जे , षिबुकुमार् के आदयः संस्कृताध्यापकाः एवास्य संघस्य नेतृत्वमावहन्ति |