Articles

सेन् कथा

dav

स: रोदिति स्म, उच्चै: रोदिति स्म। स: प्रियशिष्य: सेन् गुरो:। यस्य वचांस्यनुसन्धाय स: बुद्धपदं प्राप्तवान् स: गुरु: इदानीं समाधिं गत:। मृतशरीरं तं वीक्ष्यैव शिष्यस्य रोदनम्। जमबहुलमासीत् सो%यमाश्रमपरिस्सर:।
वृद्ध: कश्चन तमुपगत्य एवमवदत् – “बुद्धस्त्वमसि। किमिदं रोदनं युज्यते त्वयि? मा रुद।
नेत्राभ्याम् अश्रूणि आगच्छन्ती सन्ति, तावदेव, अहं किं कुर्यां स: अवदत्।
परन्तु जना: पश्यन्त: सन्ति। ये भवता एव पाठिता: शरीरस्य नश्वरता तथा आत्मनो अनश्वरता च। आत्मा अनश्वर:। ते किं चिन्तयेयु: बुद्ध: बद्ध: इति वा
शिष्य: प्रत्यवदत् कुसुममेकं पतितम्। मम नेत्रे अश्रुपूर्णे । क्व तत्र बन्धनम् शिष्य: रुदन्नेव मन्दं प्रत्यवदत्।