भारते देशस्य आन्तरिक – बाह्यसुरक्षाविषये सैनिकदलानां योगदानस्य सम्माननाय  दिनमिदम् आचर्यते। राष्ट्रस्य सुस्थित्यै स्वजीवनं समर्पितवतां विविधसैनिकदलस्थानां भटानां स्मरणार्थमेव दिनस्यास्य आचरणं सर्वकारेण समायुज्यते।   स्थलसेना, नौसेना, वायुसेना इत्यादीन् अतिरिच्य तटसुरक्षादलः प्रादेशिकसेनादलः इत्यादयः प्रतिरोधसेनायाः उपविभागाः अपि वर्तन्ते। सीमासंरक्षणसेना, केन्द्रीयरेल-संक्षणसेना इत्यादयः गृहमन्त्रालयस्य अधीने प्रवर्त्तमानाः सेनाविभागाः भवन्ति। भारतीयानां संरक्षणं कु्र्वतामेतेषां सम्माननार्थं भारते March 3 राष्ट्रियप्रतिरोधदिनत्वेन सम्पाद्यते।