विश्वविख्यातस्य भारतीयभौतिकशास्त्र-वैज्ञानिकस्य डा. सर्  सी.वी.रामन् महाशयस्य नोबल् पुरस्कारप्राप्तिः दिनेस्मिन्नभूत्। तत्स्मरणार्थमेव भारतदेशे दिनस्यास्याचरणम् । भारतीय शास्त्रस्य प्रौढं पारम्पर्यं तथा प्रगतिं च सामान्य जनान् अपि अवबोधयितुम् अनेन दिनाचरणेन उद्दिश्यते ।सी.वी.रामन् महाशयस्य पूर्णनाम  चन्द्रशेखर वेङ्कट रामन् इत्यासीत् ।